भगवद्गीता मङ्गलाचरण (गीता धर्म मंडळ)
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेनग्रथितां पुराणमुनिना मध्येमहाभारतम्।
व्यासेनग्रथितां पुराणमुनिना मध्येमहाभारतम्।
अद्वैतामृतवर्षिणीं
भगवतीमष्टादशाध्यायिनीम्
अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम्॥ १॥
नमोस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥ २॥
प्रपन्नपारिजाताय
तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय
कृष्णाय गीतामृतदुहे नमः ॥ ३॥
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥ ४॥
वसुदेवसुतं
देवं कंसचानूरमर्दनं ।
देवकीपरमानन्दं
कृष्णं वन्दे जगद्गुरुम्॥ ५॥
अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम्॥ १॥
नमोस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥ २॥
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥ ४॥
मूकं
करोति वाचालं पंगुं लंघयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्द
माधवम् ॥६॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥७॥
Comments