भगवद्गीता मङ्गलाचरण (गीता धर्म मंडळ)
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम्। अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम् अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम्॥ १॥ नमोस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥ २॥ प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३॥ सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥ ४॥ वसुदेवसुतं देवं कंसचानूरमर्दनं । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥ ५॥ मूकं करोति वाचालं पंगुं लंघयते गिरिम्। यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥ ६ ॥ ...